{
    "_id": "BG1.26",
    "chapter": 1,
    "verse": 26,
    "slok": "तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |\nआचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१-२६||",
    "transliteration": "tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān .\nācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||",
    "tej": {
        "author": "Swami Tejomayananda",
        "ht": "।।1.26।।वहाँ अर्जुन ने उन दोनों सेनाओं में खड़े पिता के भाइयों,  पितामहों,  आचार्यों,  मामों, भाइयों, पुत्रों,  पौत्रों,  मित्रों,  श्वसुरों और सुहृदों को भी देखा।"
    },
    "siva": {
        "author": "Swami Sivananda",
        "et": "1.26. Then, Arjuna (son of Pritha) saw there (in the armies) stationed,\nfathers and grandfathers, teachers, maternal uncles, brothers, sons, grandsons\nand friends too.",
        "ec": "1.26 तत्र there? अपश्यत् saw? स्थितान् stationed? पार्थः Partha? पितृ़न् fathers? अथ also? पितामहान्grandfathers? आचार्यान् teachers? मातुलान् maternal uncles? भ्रातृ़न् brothers? पुत्रान् sons? पौत्रान् grandsons? सखीन् friends? तथा too.No Commentary."
    },
    "purohit": {
        "author": "Shri Purohit Swami",
        "et": "1.26 There Arjuna noticed fathers, grandfathers, uncles, cousins, sons, grandsons, teachers, friends;"
    },
    "chinmay": {
        "author": "Swami Chinmayananda",
        "hc": "।।1.26।। No commentary."
    },
    "san": {
        "author": "Dr.S.Sankaranarayan",
        "et": "1.26. Noticing all those kinsmen arrayed  [in the army],  the son of Kunti was overpowered by unmost compassion;  and being despondent,  he uttered this:"
    },
    "adi": {
        "author": "Swami Adidevananda",
        "et": "1.26 Then as Arjuna looked on, he saw standing there fathers and grand-fathers, teachers, uncles, brothers, sons, grandsons and comrades;"
    },
    "gambir": {
        "author": "Swami Gambirananda",
        "et": "1.26 Then Partha (Arjuna) saw, marshalled among both the armies, (his) uncles as also grandfathers, teachers, maternal uncles, brothers (and (cousins), sons, grandsons, as well as comrades and fathers-in-law and friends."
    },
    "madhav": {
        "author": "Sri Madhavacharya",
        "sc": "।।1.26।।Sri  Madhvacharya did not comment on this sloka. The commentary starts from 2.11."
    },
    "anand": {
        "author": "Sri Anandgiri",
        "sc": "।।1.26।।एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य संप्रवृत्तेति कथयति   तत्रेत्यादिना।  सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय संप्रवृत्ते सतीत्येतदुच्यते। सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति संबन्धः। अथशब्दस्तथाशब्दपर्यायः। श्वशुरा भार्याणां जनयितारः। सुहृदो मित्राणि कृतवर्मप्रभृतयः।"
    },
    "rams": {
        "author": "Swami Ramsukhdas",
        "ht": "।।1.26।। उसके बाद पृथानन्दन अर्जुनने उन दोनों ही सेनाओंमें स्थित पिताओंको, पितामहोंको, आचार्योंको, मामाओंको, भाइयोंको, पुत्रोंको, पौत्रोंको तथा मित्रोंको, ससुरोंको और सुहृदोंको भी देखा।",
        "hc": "1.26।। व्याख्या--'तत्रापश्यत् ৷৷. सेनयोरूभयोरपि'-- जब भगवान्ने अर्जुनसे कहा कि इस रणभूमिमें इकट्ठे हुए कुरुवंशियोंको देख, तब अर्जुनकी दृष्टि दोनों सेनाओंमें स्थित अपने कुटुम्बियोंपर गयी। उन्होंने देखा कि उन सेनाओंमें युद्धके लिये अपने-अपने स्थानपर भूरिश्रवा आदि पिताके भाई खड़े हैं, जो कि मेरे लिये पिताके समान हैं। भीष्म, सोमदत्त आदि पितामह खड़े हैं। द्रोण, कृप आदि आचार्य (विद्या पढ़ानेवाले और कुलगुरु) खड़े हैं। पुरुजित, कुन्तिभोज, शल्य, शकुनि आदि मामा खड़े हैं। भीम, दुर्योधन आदि भाई खड़े हैं। अभिमन्यु, घटोत्कच, लक्ष्मण (दुर्योधनका पुत्र) आदि मेरे और मेरे भाइयोंके पुत्र खड़े हैं। लक्ष्मण आदिके पुत्र खड़े हैं जो कि मेरे पौत्र हैं। दुर्योंधनके अश्वत्थामा आदि मित्र खड़े हैं और ऐसे ही अपने पक्षके मित्र भी खड़े हैं। द्रुपद, शैब्य आदि ससुर खड़े हैं। बिना किसी हेतुके अपने-अपने पक्षका हित चाहनेवाले सात्यकि, कृतवर्मा आदि सुहृद् भी खड़े हैं।सम्बन्ध-- अपने सब कुटुम्बियोंको देखनेके बाद अर्जुनने क्या किया--इसके आगेके श्लोकमें कहते हैं।"
    },
    "raman": {
        "author": "Sri Ramanuja",
        "sc": "।।1.26।।अर्जुन उवाच  संजय उवाच  स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।",
        "et": "1.26 - 1.47 Arjuna said - Sanjaya said  Sanjaya continued:  The high-minded Arjuna, extremely kind, deeply friendly, and supremely righteous, having brothers like himself, though repeatedly deceived by the treacherous attempts of your people like burning in the lac-house etc., and therefore fit to be killed by him with the help of the Supreme Person, nevertheless said, 'I will not fight.'\n\nHe felt weak, overcome as he was by his love and extreme compassion for his relatives. He was also filled with fear, not knowing what was righteous and what unrighteous. His mind was tortured by grief, because of the thought of future separation from his relations. So he threw away his bow and arrow and sat on the chariot as if to fast to death."
    },
    "abhinav": {
        "author": "Sri Abhinav Gupta",
        "sc": "।।1.26।।No commentary.",
        "et": "1.12  1.29  Sri Abhinavgupta did not comment upon this sloka."
    },
    "sankar": {
        "author": "Sri Shankaracharya",
        "ht": "।।1.26।।Sri Sankaracharya did not comment on this sloka.",
        "sc": "1.26 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.",
        "et": "1.26 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10."
    },
    "jaya": {
        "author": "Sri Jayatritha",
        "sc": "।।1.26।।Sri Jayatirtha did not comment on this sloka. The commentary starts from 2.11."
    },
    "vallabh": {
        "author": "Sri Vallabhacharya",
        "sc": "।।1.26  1.27।।तत्रापश्यत् स्थितान् पार्थः 126 इत्यारभ्यएवमुक्त्वाऽर्जुनः 1।46 इत्यन्तं लोकसम्बन्धाभिमानेन अर्जुनः कातर्यतः स्वावस्थां निवेदयति।"
    },
    "ms": {
        "author": "Sri Madhusudan Saraswati",
        "sc": "।।1.26।।तत्र समरसभारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरूभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः। अथशब्दस्तथाशब्दपर्यायः। परसेनायां पितृ़न्पितृव्यान्भूरिश्रवःप्रभृतीन् पितामहान्भीष्मसोमदत्तप्रभृतीन् आचार्यान्द्रोणकृपप्रभृतीन मातुलाञ्शल्यशकुनिप्रभृतीन् भ्रातृ़न्दुर्योधनप्रभृतीन् पुत्रान्लक्ष्मणप्रभृतीन् पौत्रान्लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथप्रभृतीन्वयस्यान् श्वशुरान्भार्याणां जनयितृ़न् सुहृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन्। सुहृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः। एंव स्वसेनायामप्युलक्षणीयम्। एवं स्थिते महानधर्मों हिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तवैकल्व्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति  कौन्तेय इति स्त्रीप्रभत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य कर्त्र्या स्वव्यापारेणैवाविष्टो व्याप्तः नतु कृपां केनचिद्व्यापारेणाविष्ट इति स्वतःसिद्धैवास्य कृपेति सूच्यते। एतत्प्रकटीकरणाय परयेति विशेषणम्। अपरयेति वा छेदः। स्वसैन्ये पुरापि कृपाभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाभूदित्यर्थः। विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन् सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति।"
    },
    "srid": {
        "author": "Sri Sridhara Swami",
        "sc": "।।1.26।।  ततः किं प्रवृत्तमित्यत आह। पितृ़न्। पितृव्यादीनित्यर्थः। पुत्रान्पौत्रानिति। दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः। सखीन्मित्राणि। सुहृदः कृतोपकारांश्चापश्यत्।"
    },
    "dhan": {
        "author": "Sri Dhanpati",
        "sc": "।।1.26।।एवं स्वसारथ्ये दृढतया स्थितेन स्वोक्तकारिणा भगवतोक्तोऽर्जुनस्तथैव कृतवानित्याह   तत्रेति।  तत्र समवेतान्कुरुन्पश्येति भगवदभ्यनुज्ञाने संवृत्ते सति तत्र सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति वा तत्रपदान्वयः। एतान्समवेतान्कुरुन्दृष्ट्वा स्त्रीस्वभावौ शोकमोहावङ्गीकुर्विति भगवदभिप्रायमर्जुनो ज्ञात्वा तानपश्यदिति सूचयितुं पार्थ इत्युक्तम्। पितृ़न्पितृव्यान्भूरिश्रवआदीन। अथशब्दस्तथाशब्दार्थे। तथा पितामहान्भीष्मप्रमुखान् आचार्यान्द्रोणादीन् मातुलान् शल्यप्रभृतीन् भ्रातृ़न्भीमदुर्योधनाद्यान् पुत्रानभिमन्युलक्ष्मणप्रभृतीन् पौत्रान् लक्ष्मणादिपुत्रान् सखीनश्वत्थामादिकान्।"
    },
    "venkat": {
        "author": "Vedantadeshikacharya Venkatanatha",
        "sc": "।।1.26।।अथाध्यायशेषस्य सङ्कलितार्थमाह  स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति  नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति  भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि  मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि  न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।"
    },
    "puru": {
        "author": "Sri Purushottamji",
        "sc": "।।1.26।।एवं भगवदुक्तोऽर्जुनस्तान्दृष्टवानित्याह सार्धेन  तत्रेति। तत्र सङ्ग्रामाजिरे उभयोः सेनयोरपि मध्ये स्थितानेतानपश्यत्। पितृ़न् पितृव्यादीन् इत्यर्थः। सखीन् बाल्ये क्रीडायां सम्मतान् सुहृदो मित्राणि।"
    },
    "neel": {
        "author": "Sri Neelkanth",
        "sc": "।।1.26।।पितृ़न् पितृव्यादीन् भूरिश्रवःप्रभृतीन्। पितामहान् भीष्मादीन्। मातुलान् शल्यादीन्। भ्रातृ़न् दुर्योधनादीन्। पुत्रान् लक्ष्मणादीन्। पौत्रान् लक्ष्मणादिपुत्रान्। सखीन् अश्वत्थामादीन्।"
    },
    "prabhu": {
        "author": "A.C. Bhaktivedanta Swami Prabhupada",
        "et": "There Arjuna could see, within the midst of the armies of both parties, his fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, friends, and also his fathers-in-law and well-wishers.",
        "ec": " On the battlefield Arjuna could see all kinds of relatives. He could see persons like Bhūriśravā, who were his father’s contemporaries, grandfathers Bhīṣma and Somadatta, teachers like Droṇācārya and Kṛpācārya, maternal uncles like Śalya and Śakuni, brothers like Duryodhana, sons like Lakṣmaṇa, friends like Aśvatthāmā, well-wishers like Kṛtavarmā, etc. He could see also the armies which contained many of his friends."
    }
}
